🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 1 • Chapter 68

Sarga 68

19 verses

Verse 1
जनकेन समादिष्टा दूतास्ते क्लान्तवाहना: त्रिरात्रमुषिता मार्गे तेऽयोध्यां प्राविशन् पुरीम्
Verse 2
राज्ञो भवनमासाद्य द्वारस्थानिदमब्रुवन् शीघ्रं निवेद्यतां राज्ञे दूतान्नो जनकस्य 
Verse 3
इत्युक्ता द्वारपालास्ते राघवाय न्यवेदयन् ते राजवचनाद्दूता राजवेश्मप्रवेशिता: ददृशुर्देवसङ्काशं वृद्धं दशरथं नृपम्
Verse 4
बद्धाञ्जलिपुटा स्सर्वे दूता विगतसाध्वसा: राजानं प्रयता वाक्यमब्रुवन्मधुराक्षरम्
Verse 5
मैथिलो जनको राजा साग्निहोत्रपुरस्कृतम् कुशलं चाव्ययं चैव सोपाध्यायपुरोहितम् मुहुर्मुहुर्मधुरया स्नेहसंयुक्तया गिरा जनकस्त्वां महाराज पृच्छते सपुरस्सरम्
Verse 6
मैथिलो जनको राजा साग्निहोत्रपुरस्कृतम् कुशलं चाव्ययं चैव सोपाध्यायपुरोहितम् मुहुर्मुहुर्मधुरया स्नेहसंयुक्तया गिरा जनकस्त्वां महाराज पृच्छते सपुरस्सरम्
Verse 7
पृष्ट्वा कुशलमव्यग्रं वैदेहो मिथिलाधिप: कौशिकानुमते वाक्यं भवन्तमिदमब्रवीत्
Verse 8
पूर्वं प्रतिज्ञा विदिता वीर्यशुल्का ममात्मजा राजानश्च कृतामर्षानिर्वीर्या विमुखीकृता:
Verse 9
सेयं मम सुता राजन् विश्वामित्रपुरस्सरै: यदृच्छयागतैर्वीरैर्निर्जिता तव पुत्रकै:
Verse 10
तच्च राजन् धनुर्दिव्यं मध्ये भग्नं महात्मना रामेण हि महाराज महत्यां जनसंसदि
Verse 11
अस्मै देया मया सीता वीर्यशुल्का महात्मने प्रतिज्ञां कर्तुमिच्छामि तदनुज्ञातुमर्हसि
Verse 12
सोपाध्यायो महाराज पुरोहितपुरस्सर: शीघ्रमागच्छ भद्रं ते द्रष्टुमर्हसि राघवौ
Verse 13
प्रीतिं  मम राजेन्द्र निर्वर्तयितुमर्हसि पुत्रयोरुभयोरेव प्रीतिं त्वमपि लप्स्यसे
Verse 14
एवं विदेहाधिपतिर्मधुरं वाक्यमब्रवीत् विश्वामित्राभ्यनुज्ञात श्शतानन्दमते स्थित: इत्युक्त्वा विरता दूता राजगौरवशङ्किता:
Verse 15
एवं विदेहाधिपतिर्मधुरं वाक्यमब्रवीत् विश्वामित्राभ्यनुज्ञात श्शतानन्दमते स्थित: इत्युक्त्वा विरता दूता राजगौरवशङ्किता:
Verse 16
दूतवाक्यं  तच्छ्रुत्वा राजा परमहर्षित: वसिष्ठं वामदेवं  मन्त्रिणोऽन्यांश्च सोऽब्रवीत्
Verse 17
गुप्त: कुशिकपुत्रेण कौसल्यानन्दवर्धन: लक्ष्मणेन सह भ्रात्रा विदेहेषु वसत्यसौ
Verse 18
दृष्टवीर्यस्तु काकुत्स्थो जनकेन महात्मना सम्प्रदानं सुतायास्तु राघवे कर्तुमिच्छति
Verse 19
यदि वो रोचते वृत्तं जनकस्य महात्मन: पुरीं गच्छामहे शीघ्रं मा भूत्कालस्य पर्यय:
0:000:00
Speed: