Book 5 • Chapter 11
Sarga 11
47 verses
Verse 1
अवधूय च तां बुद्धिं बभूवावस्थितस्तदा जगाम चापरां चिन्तां सीतां प्रति महाकपिः
Verse 2
न रामेण वियुक्ता सा स्वप्तुमर्हति भामिनी न भोक्तुं वाप्यलङ्कर्तुं न पानमुपसेवितुम् नान्यं नरमुपस्थातुं सुराणामपि चेश्वरम् न हि रामसमः कश्चिद्विद्यते त्रिदशेष्वपि अन्येयमिति निश्चित्य पानभूमौ चचार सः
Verse 3
न रामेण वियुक्ता सा स्वप्तुमर्हति भामिनी न भोक्तुं वाप्यलङ्कर्तुं न पानमुपसेवितुम् नान्यं नरमुपस्थातुं सुराणामपि चेश्वरम् न हि रामसमः कश्चिद्विद्यते त्रिदशेष्वपि अन्येयमिति निश्चित्य पानभूमौ चचार सः
Verse 4
क्रीडितेनापराः क्लान्ता गीतेन च तथाऽपराः नृत्तेन चापराः क्लान्ताः पानविप्रहतास्तथा
Verse 5
मुरजेषु मृदङ्गेषु पीठिकासु च संस्थिताः तथाऽऽस्तरणमुख्येषु संविष्टाश्चापराः स्त्रियः
Verse 6
अङ्गनानां सहस्रेण भूषितेन विभूषणैः रूपसल्लापशीलेन युक्तगीतार्थभाषिणा देशकालाभियुक्तेन युक्तवाक्याभिधायिना रताभिरतसंसुप्तं ददर्श हरियूथपः
Verse 7
अङ्गनानां सहस्रेण भूषितेन विभूषणैः रूपसल्लापशीलेन युक्तगीतार्थभाषिणा देशकालाभियुक्तेन युक्तवाक्याभिधायिना रताभिरतसंसुप्तं ददर्श हरियूथपः
Verse 8
तासां मध्ये महाबाहुः शुशुभे राक्षसेश्वरः गोष्ठे महति मुख्यानां गवां मध्ये यथा वृषः
Verse 9
स राक्षसेन्द्रः शुशुभे ताभिः परिवृतस्स्वयम् करेणुभिर्यथाऽरण्ये परिकीर्णो महाद्विपः
Verse 10
सर्वकामैरुपेतां च पानभूमिं महात्मनः ददर्श हरिशार्दूलस्तस्य रक्षःपतेर्गृहे
Verse 11
मृगाणां महिषाणां च वराहाणां च भागशः तत्र न्यस्तानि मांसानि पानभूमौ ददर्श सः
Verse 12
रौक्मेषु च विशालेषु भाजनेष्वर्धभक्षितान् ददर्श हरिशार्दूलो मयूरान् कुक्कुटांस्तथा
Verse 13
वराहवार्ध्राणसकान् दधिसौवर्चलायुतान् शल्यान् मृगमयूरांश्च हनुमानन्ववैक्षत
Verse 14
क्रकरान्विविधान् सिद्धांश्चकोरानर्धभक्षितान् महिषानेकशल्यांश्च छागांश्च कृतनिष्ठितान् लेह्यानुच्चावचान्पेयान् भोज्यानि विविधानि च
Verse 15
क्रकरान्विविधान् सिद्धांश्चकोरानर्धभक्षितान् महिषानेकशल्यांश्च छागांश्च कृतनिष्ठितान् लेह्यानुच्चावचान्पेयान् भोज्यानि विविधानि च
Verse 16
तथाऽऽम्ललवणोत्तंसैर्विविधैरागषाडबैः हारनूपुरकेयूरैरपविद्धैर्महाधनैः पानभाजनविक्षिप्तैः फलैश्च विविधैरपि कृतपुष्पोपहारा भूरधिकं पुष्यति श्रियम्
Verse 17
तथाऽऽम्ललवणोत्तंसैर्विविधैरागषाडबैः हारनूपुरकेयूरैरपविद्धैर्महाधनैः पानभाजनविक्षिप्तैः फलैश्च विविधैरपि कृतपुष्पोपहारा भूरधिकं पुष्यति श्रियम्
Verse 18
तत्र तत्र च विन्यस्तै: सुश्लिष्टैश्शयनासनैः पानभूमिर्विना वह्निं प्रदीप्तेवोपलक्ष्यते
Verse 19
बहुप्रकारैर्विविधैर्वरसंस्कारसंस्कृतैः मांसैः कुशलसम्पृक्तैः पानभूमिगतैः पृथक्
Verse 20
दिव्याः प्रसन्ना विविधाः सुराः कृतसुरा अपि शर्कराऽसवमाध्वीकपुष्पासवफलासवाः वासचूर्णैश्च विविधैर्मृष्टास्तैस्तैः पृथक् पृथक्
Verse 21
सन्तता शुशुभे भूमिर्माल्यैश्च बहुसंस्थितैः हिरण्मयैश्च विविधैर्भाजनैः स्फाटिकैरपि जाम्बूनदमयैश्चान्यैः करकैरभिसंवृता
Verse 22
सन्तता शुशुभे भूमिर्माल्यैश्च बहुसंस्थितैः हिरण्मयैश्च विविधैर्भाजनैः स्फाटिकैरपि जाम्बूनदमयैश्चान्यैः करकैरभिसंवृता
Verse 23
राजतेषु च कुम्भेषु जाम्बूनदमयेषु च पानश्रेष्ठं तदा भूरि कपिस्तत्र ददर्श ह
Verse 24
सोऽपश्यच्छातकुम्भानि सीधोर्मणिमयानि च राजतानि च पूर्णानि भाजनानि महाकपिः
Verse 25
क्वचिदल्पावशेषाणि क्वचित्पीतानि सर्वशः क्वचिन्नैव प्रपीतानि पानानि स ददर्श ह
Verse 26
क्वचिद् भक्ष्यांश्च विविधान् क्वचित्पानानि भागशः क्वचिदन्नावशेषाणि पश्यन्वै विचचार ह
Verse 27
क्वचित्प्रभिन्नैः करकैः क्वचिदालोलितैर्घटैः क्वचित्संपृक्तमाल्यानि जलानि च फलानि च
Verse 28
शयनान्यत्र नारीणां शुभ्राणि बहुधा पुनः परस्परं समाश्लिष्य काश्चित्सुप्ता वराङ्गनाः
Verse 29
काश्चिच्च वस्त्रमन्यस्यास्स्वपन्त्याः परिधाय च आहृत्य चाबलाः सुप्ता निद्राबलपराजिताः
Verse 30
तासामुच्छवासवातेन वस्त्रं माल्यं च गात्रजम् नात्यर्थं स्पन्दते चित्रं प्राप्य मन्दमिवानिलम्
Verse 31
चन्दनस्य च शीतस्य शीधोर्मधुरसस्य च विविधस्य च माल्यस्य धूपस्य विविधस्य च बहुधा मारुतस्तत्र गन्धं विविधमुद्वहन्
Verse 32
स्नानानां चन्दनानां च धूपानां चैव मूर्छितः प्रववौ सुरभिर्गन्धो विमाने पुष्पके तदा
Verse 33
श्यामावदातास्तत्रान्याः काश्चित्कृष्णा वराङ्गनाः काश्चित् काञ्चनवर्णाङ्ग्यः प्रमदा राक्षसालये
Verse 34
तासां निद्रावशत्वाच्च मदनेन विमूर्छितम् पद्मिनीनां प्रसुप्तानां रूपमासीद्यथैव हि
Verse 35
एवं सर्वमशेषेण रावणान्तः पुरं कपिः ददर्श सुमहातेजाः न ददर्श च जानकीम्
Verse 36
निरीक्षमाणश्च तदा ताः स्त्रियः स महाकपिः जगाम महतीं चिन्तां धर्मसाध्वसशङ्कितः
Verse 37
परदारावरोधस्य प्रसुप्तस्य निरीक्षणम् इदं खलु ममात्यर्थं धर्मलोपं करिष्यति
Verse 38
न हि मे परदाराणां दृष्टिर्विषयवर्तिनी अयं चात्र मया दृष्टः परदारापरिग्रहः
Verse 39
तस्य प्रादुरभूच्चिन्ता पुनरन्या मनस्विनः निश्चितैकान्तचित्तस्य कार्यनिश्चयदर्शिनी
Verse 40
कामं दृष्टा मया सर्वा विश्वस्ता रावणस्त्रियः न हि मे मनसः किञ्चिद्वैकृत्यमुपजायते
Verse 41
मनो हि हेतुः सर्वेषामिन्द्रियाणां प्रवर्तने शुभाशुभास्ववस्थासु तच्च मे सुव्यवस्थितम्
Verse 42
नान्यत्र हि मया शक्या वैदेही परिमार्गितुम् स्त्रियो हि स्त्रीषु दृश्यन्ते सदा सम्परिमार्गणे
Verse 43
यस्य सत्त्वस्य या योनिस्तस्यां तत्परिमार्ग्यते न शक्या प्रमदा नष्टा मृगीषु परिमार्गितुम्
Verse 44
तदिदं मार्गितं तावच्छुद्धेन मनसा मया रावणान्तःपुरं सर्वं दृश्यते न तु जानकी
Verse 45
देवगन्धर्वकन्याश्च नागकन्याश्च वीर्यवान् अवेक्षमाणो हनुमान्नैवापश्यत जानकीम्
Verse 46
तामपश्यन्कपिस्तत्र पश्यञ्श्चान्या परस्त्रियः अपक्रम्य तदा वीरः प्रध्यातुमुपचक्रमे
Verse 47
स भूयस्तु परं श्रीमान् मारुतिर्यत्नमास्थितः आपानभूमिमुत्सृज्य तद्विचेतुं प्रचक्रमे
0:000:00
Speed: