Book 5 • Chapter 12
Sarga 12
25 verses
Verse 1
स तस्य मध्ये भवनस्य मारुति र्लतागृहांश्चित्रगृहान्निशागृहान् जगाम सीतां प्रति दर्शनोत्सुको न चैव तां पश्यति चारुदर्शनाम्
Verse 2
स चिन्तयामास ततो महाकपिः प्रियामपश्यन्रघुनन्दनस्य ताम् ध्रुवं हि सीता म्रियते यथा न मे विचिन्वतो दर्शनमेति मैथिली
Verse 3
सा राक्षसानां प्रवरेण जानकी स्वशीलसंरक्ष्णतत्परा सती अनेन नूनं प्रति दुष्टकर्मणा हता भवेदार्यपथे परे स्थिता
Verse 4
विरूपरूपा विकृता विवर्चसो महानना दीर्घविरूपदर्शनाः समीक्ष्य सा राक्षसराजयोषितो भयाद्विनष्टा जनकेश्वरात्मजा
Verse 5
सीतामदृष्ट्वा ह्यनवाप्य पौरुषं विहृत्य कालं सह वानरैश्चिरम् न मेऽस्ति सुग्रीवसमीपगा गतिः सुतीक्ष्णदण्डो बलवांश्च वानरः
Verse 6
दृष्टमन्तःपुरं सर्वं दृष्टा रावणयोषितः न सीता दृश्यते साध्वीवृथा जातो मम श्रमः
Verse 7
किं नु मां वानराः सर्वे गतं वक्ष्यन्ति सङ्गताः गत्वा तत्र त्वया वीर किं कृतं तद्वदस्व नः
Verse 8
अदृष्ट्वा किं प्रवक्ष्यामि तामहं जनकात्मजाम् ध्रुवं प्रायमुपैष्यन्ति कालस्य व्यतिवर्तने
Verse 9
किं वा वक्ष्यति वृद्धश्च जाम्बवानाङ्गदश्च सः गतं पारं समुद्रस्य वानराश्च समागताः
Verse 10
अनिर्वेदः श्रियो मूलमनिर्वेदः परं सुखम् अनिर्वेदो हि सततं सर्वार्थेषु प्रवर्तकः
Verse 11
करोति सफलं जन्तोः कर्म यत्तत्करोति सः तस्मादनिर्वेदकृतं यत्नं चेष्टेऽहमुत्तमम् भूयस्तावद्विचेष्यामि देशान्रावणपालितान्
Verse 12
आपानशाला विचितास्तथा पुष्पगृहाणि च चित्रशालाश्च विचिता भूयः क्रीडागृहाणि च निष्कुटान्तररथ्याश्च विमानानि च सर्वशः
Verse 13
आपानशाला विचितास्तथा पुष्पगृहाणि च चित्रशालाश्च विचिता भूयः क्रीडागृहाणि च निष्कुटान्तररथ्याश्च विमानानि च सर्वशः
Verse 14
इति सञ्चिन्त्य भूयोऽपि विचेतुमुपचक्रमे भूमीगृहांश्चैत्यगृहान् गृहातिगृहकानपि
Verse 15
उत्पतन्निष्पतंश्चापि तिष्ठन्गच्छन् पुनः पुनः अपावृण्वंश्च द्वाराणि कवाटान्यवघाटयन् प्रविशन्निष्पतंश्चापि प्रपतन्नुत्पतन्नपि सर्वमप्यवकाशं स विचचार महाकपिः
Verse 16
उत्पतन्निष्पतंश्चापि तिष्ठन्गच्छन् पुनः पुनः अपावृण्वंश्च द्वाराणि कवाटान्यवघाटयन् प्रविशन्निष्पतंश्चापि प्रपतन्नुत्पतन्नपि सर्वमप्यवकाशं स विचचार महाकपिः
Verse 17
चतुरङ्गुलमात्रोऽपि नावकाशः स विद्यते रावणान्तःपुरे तस्मिन् यं कपिर्न जगाम सः
Verse 18
प्राकारान्तररथ्याश्च वेदिकाश्चैत्यसंश्रयाः दीर्घिकाः पुष्करिण्यश्च सर्वं तेनावलोकितम्
Verse 19
राक्षस्यो विविधाकारा विरूपा विकृतास्तथा दृष्टा हनुमता तत्र न तु सा जनकात्मजा
Verse 20
रूपेणाप्रतिमा लोके वरा विद्याधरस्त्रियः दृष्टा हनुमता तत्र न तु राघवनन्दिनी
Verse 21
नागकन्या वरारोहाः पूर्णचन्र्दनिभाननाः दृष्टा हनुमता तत्र न तु सीता सुमध्यमा
Verse 22
प्रमथ्य राक्षसेन्द्रेण नागकन्या बलाद्धृताः दृष्टा हनुमता तत्र न सा जनकनन्दिनी
Verse 23
सोऽपश्यंस्तां महाबाहुः पश्यंश्चान्या वरस्त्रियः विषसाद मुहुर्धीमान् हनुमान् मारुतात्मजः
Verse 24
उद्योगं वानरेन्द्राणां प्लवनं सागरस्य च व्यर्थं वीक्ष्यानिलसुतश्चिन्तां पुनरुपागमत्
Verse 25
अवतीर्य विमानाच्च हनुमान् मारुतात्मजः चिन्तामुपजगामाथ शोकोपहतचेतनः
0:000:00
Speed: