Book 5 • Chapter 13
Sarga 13
69 verses
Verse 1
विमानात्तु सुसम्क्रम्य प्राकारं हरियूथपः हनुमान्वेगवानासीद्यथा विद्युद्घनान्तरे
Verse 2
सम्परिक्रम्य हनुमान्रावणस्य निवेशनात् अदृष्ट्वा जानकीं सीतामब्रवीद्वचनं कपिः
Verse 3
भूयिष्ठं लोलिता लङ्का रामस्य चरता प्रियम् न हि पश्यामि वैदेहीं सीतां सर्वाङ्गशोभनाम्
Verse 4
पल्वलानि तटाकानि सरांसि सरितस्तथा नद्योऽनूपवनान्ताश्च दुर्गाश्च धरणीधराः लोलिता वसुधा सर्वा न तु पश्यामि जानकीम्
Verse 5
इह सम्पातिना सीता रावणस्य निवेशने आख्याता गृध्रराजेन न च पश्यामि तामहम्
Verse 6
किं नु सीताऽथ वैदेही मैथिली जनकात्मजा उपतिष्ठेत विवशा रावणं दुष्टचारिणम्
Verse 7
क्षिप्रमुत्पततो मन्ये सीतामादाय रक्षसः बिभ्यतो रामबाणानामन्तरा पतिता भवेत्
Verse 8
अथवा ह्रियमाणायाः पथि सिद्धनिषेविते मन्ये पतितमार्याया हृदयं प्रेक्ष्य सागरम्
Verse 9
रावणस्योरुवेगेन भुजाभ्यां पीडितेन च तया मन्ये विशालाक्ष्या त्यक्तं जीवितमार्यया
Verse 10
उपर्युपरि वा नूनं सागरं क्रमतस्तदा विवेष्टमाना पतिता सागरे जनकात्मजा
Verse 11
अहो क्षुद्रेण वाऽनेन रक्षन्ती शीलमात्मनः अबन्धुर्भक्षिता सीता रावणेन तपस्विनी
Verse 12
अथवा राक्षसेन्द्रस्य पत्नीभिरसितेक्षणा अदुष्टा दुष्टभावाभिर्भक्षिता सा भविष्यति
Verse 13
सम्पूर्णचन्द्रप्रतिमं पद्मपत्रनिभेक्षणम् रामस्य ध्यायती वक्त्रं पञ्चत्वं कृपणा गता
Verse 14
हा राम लक्ष्मणेत्येवं हाऽयोध्ये चेति मैथिली विलप्य बहु वैदेही न्यस्तदेहा भविष्यति
Verse 15
अथवा निहिता मन्ये रावणस्य निवेशने नूनं लालप्यते सीता पञ्जरस्थेव शारिका
Verse 16
जनकस्य सुता सीता रामपत्नी सुमध्यमा कथमुत्पलपत्राक्षी रावणस्य वशं व्रजेत्
Verse 17
विनष्टा वा प्रणष्टा वा मृता वा जनकात्मजा रामस्य प्रियभार्यस्य न निवेदयितुं क्षमम्
Verse 18
निवेद्यमाने दोषस्स्याद्दोषस्स्यादनिवेदने कथं नु खलु कर्तव्यं विषमं प्रतिभाति मे
Verse 19
अस्मिन्नेवंगते कार्ये प्राप्तकालं क्षमं च किम् भवेदिति मतं भूयो हनुमान्प्रविचारयत्
Verse 20
यदि सीतामदृष्ट्वाऽहं वानरेन्द्रपुरीमितः गमिष्यामि ततः को मे पुरुषार्थो भविष्यति
Verse 21
ममेदं लङ्घनं व्यर्थं सागरस्य भविष्यति प्रवेशश्चैव लङ्कायाः राक्षसानां च दर्शनम्
Verse 22
किं मां वक्ष्यति सुग्रीवो हरयो वा समागताः किष्किन्धां समनुप्राप्तं तौ वा दशरथात्मजौ
Verse 23
गत्वा तु यदि काकुत्स्थं वक्ष्यामि परमप्रियम् न दृष्टेति मया सीता ततस्तक्ष्यति जीवितम्
Verse 24
परुषं दारुणं क्रूरं तीक्ष्णमिन्द्रियतापनम् सीतानिमित्तं दुर्वाक्यं श्रुत्वा स न भविष्यति
Verse 25
तं तु कृच्छ्रगतं दृष्ट्वा पञ्चत्वगतमानसम् भृशानुरक्तो मेधावी न भविष्यति लक्ष्मणः
Verse 26
विनष्टौ भ्रातरौ श्रुत्वा भरतोऽपि मरिष्यति भरतं च मृतं दृष्ट्वा शत्रुघ्नो न भविष्यति
Verse 27
पुत्रान्मृतान्समीक्ष्याथ न भविष्यन्ति मातरः कौसल्या च सुमित्रा च कैकेयी च न संशयः
Verse 28
कृतज्ञस्सत्यसन्धश्च सुग्रीवः प्लवगाधिपः रामं तथा गतं दृष्ट्वा ततस्त्यक्ष्यति जीवितम्
Verse 29
दुर्मना व्यथिता दीना निरानन्दा तपस्विनी पीडिता भर्तृशोकेन रुमा त्यक्ष्यति जीवितम्
Verse 30
वालिजेन तु दुःखेन पीडिता शोककर्शिता पञ्चत्वं च गते राज्ञि ताराऽपि न भविष्यति
Verse 31
मातापित्रोर्विनाशेन सुग्रीवव्यसनेन च कुमारोऽप्यङ्गदः कस्माद्धारयिष्यति जीवितम्
Verse 32
भर्तृजेन तु दुःखेन ह्यभिभूता वनौकसः शिरांस्यभिहनिष्यन्ति तलैर्मुष्टिभिरेव च
Verse 33
सान्त्वेनानुप्रदानेन मानेन च यशस्विना लालिताः कपिराजेन प्राणांस्त्यक्ष्यन्ति वानराः
Verse 34
न वनेषु न शैलेषु न निरोधेषु वा पुनः क्रीडामनुभविष्यन्ति समेत्य कपिकुञ्जराः
Verse 35
सपुत्रदारास्सामात्या भर्तृव्यसनपीडिताः शैलाग्रेभ्यः पतिष्यन्ति समेषु विषमेषु च
Verse 36
विषमुद्बन्धनं वापि प्रवेशं ज्वलनस्य वा उपवासमथो शस्त्रं प्रचरिष्यन्ति वानराः
Verse 37
घोरमारोदनं मन्ये गते मयि भविष्यति इक्ष्वाकुकुलनाशश्च नाशश्चैव वनौकसाम्
Verse 38
सोऽहं नैव गमिष्यामि किष्किन्धां नगरीमितः न च शक्ष्याम्यहं द्रष्टुं सुग्रीवं मैथिलीं विना
Verse 39
मय्यगच्छति चेहस्थे धर्मात्मानौ महारथौ आशया तौ धरिष्येते वानराश्च मनस्विनः
Verse 40
हस्तादानो मुखादानो नियतो वृक्षमूलिकः वानप्रस्थो भविष्यामि ह्यदृष्ट्वा जनकात्मजाम् सागरानूपजे देशे बहुमूलफलोदके
Verse 41
हस्तादानो मुखादानो नियतो वृक्षमूलिकः वानप्रस्थो भविष्यामि ह्यदृष्ट्वा जनकात्मजाम् सागरानूपजे देशे बहुमूलफलोदके
Verse 42
चितां कृत्वा प्रवेक्ष्यामि समिद्धमरणीसुतम् उपविष्टस्य वा सम्यग्लिङ्गिनीं साधयिष्यतः शरीरं भक्षयिष्यन्ति वायसाः श्वापदानि च
Verse 43
इदं महर्षिभिर्दृष्टं निर्याणमिति मे मतिः सम्यगापः प्रवेक्ष्यामि न चेत्पश्यामि जानकीम्
Verse 44
सुजातमूला सुभगा कीर्तिमाला यशस्विनी प्रभग्ना चिररात्रीयं मम सीतामपश्यतः
Verse 45
तापसो वा भविष्यामि नियतो वृक्षमूलिकः नेतः प्रतिगमिष्यामि तामदृष्ट्वासितेक्षणाम्
Verse 46
यदीतः प्रतिगच्छामि सीतामनधिगम्य ताम् अङ्गदस्सह तैस्सर्वैर्वानरैर्न भविष्यति
Verse 47
विनाशे बहवो दोषा जीवन् भद्राणि पश्यति तस्मात्प्राणान् धरिष्यामि ध्रुवो जीवितसङ्गमः
Verse 48
एवं बहुविधं दुःखं मनसा धरायन्मुहुः नाध्यगच्छत्तदा पारं शोकस्य कपिकुञ्चरः
Verse 49
रावणं वा वधिष्यामि दशग्रीवं महाबलम् काममस्तु हृता सीता प्रत्याचीर्णं भविष्यति
Verse 50
अथवैनं समुत्क्षिप्य उपर्युपरि सागरम् रामायोपहरिष्यामि पशुं पशुपतेरिव
Verse 51
इति चिन्तां समापन्नः सीतामनधिगम्य ताम् ध्यानशोकपरीतात्मा चिन्तयामास वानरः
Verse 52
यावत्सीतां हि पश्यामि रामपत्नीं यशस्विनीम् तावदेतां पुरीं लङ्कां विचिनोमि पुनः पुनः
Verse 53
सम्पातिवचनाच्चापि रामं यद्यानयाम्यहम् अपश्यन् राघवो भार्यां निर्धहेत्सर्ववानरान्
Verse 54
इहैव नियताहारो वत्स्यामि नियतेन्द्रियः न मत्कृते विनश्येयुः सर्वे ते नरवानराः
Verse 55
अशोकवनिका चेयं दृश्यते या महाद्रुमा इमामधिगमिष्यामि न हीयं विचिता मया
Verse 56
वसून्रुद्रांस्तथाऽदित्यानश्विनौ मरुतोऽपि च नमस्कृत्वा गमिष्यामि रक्षसां शोकवर्धनः
Verse 57
जित्वा तु राक्षसान् सर्वानिक्ष्वाकुकुलनन्दिनीम् सम्प्रदास्यामि रामाय यथा सिद्धिं तपस्विने
Verse 58
सः मुहूर्तमिव ध्यात्वा चिन्तावग्रथितेन्द्रियः उदतिष्ठन्महातेजा हनुमान् मारुतात्मजः
Verse 59
नमोऽस्तु रामाय सलक्ष्मणाय देव्यै च तस्यै जनकात्मजायै नमोऽस्तु रुद्रेंद्रयमानिलेभ्यो नमोऽस्तु चन्द्रार्कमरुद्गणेभ्यः
Verse 60
स तेभ्यस्तु नमस्कृत्य सुग्रीवाय च मारुतिः दिशस्सर्वास्समालोक्य ह्यशोकवनिकां प्रति
Verse 61
स गत्वा मनसा पूर्वमशोकवनिकां शुभाम् उत्तरं चिन्तयामास वानरो मारुतात्मजः
Verse 62
ध्रुवं तु रक्षोबहुला भविष्यति वनाकुला अशोकवनिका पुण्या सर्वसंस्कारसंस्कृता
Verse 63
रक्षिणश्चात्र विहिता नूनं रक्षन्ति पादपान् भगवानपि सर्वात्मा नातिक्षोभं प्रवाति वै संक्षिप्तोऽयं मयाऽत्मा च रामार्थे रावणस्य च
Verse 64
सिद्धिं मे संविधास्यन्ति देवाः सर्षिगणास्त्विह ब्रह्मा स्वयंभूर्भगवान् देवाश्चैव दिशन्तु मे सिद्धिमग्निश्च वायुश्च पुरुहूतश्च वज्रभृत् वरुणः पाशहस्तश्च सोमादित्यौ तथैव च अश्विनौ च महात्मानौ मरुतः शर्व एव च सिद्धिं सर्वाणि भूतानि भूतानां चैव यः प्रभुः दास्यन्ति मम ये चान्ये ह्यदृष्टाः पथि गोचराः
Verse 65
सिद्धिं मे संविधास्यन्ति देवाः सर्षिगणास्त्विह ब्रह्मा स्वयंभूर्भगवान् देवाश्चैव दिशन्तु मे सिद्धिमग्निश्च वायुश्च पुरुहूतश्च वज्रभृत् वरुणः पाशहस्तश्च सोमादित्यौ तथैव च अश्विनौ च महात्मानौ मरुतः शर्व एव च सिद्धिं सर्वाणि भूतानि भूतानां चैव यः प्रभुः दास्यन्ति मम ये चान्ये ह्यदृष्टाः पथि गोचराः
Verse 66
सिद्धिं मे संविधास्यन्ति देवाः सर्षिगणास्त्विह ब्रह्मा स्वयंभूर्भगवान् देवाश्चैव दिशन्तु मे सिद्धिमग्निश्च वायुश्च पुरुहूतश्च वज्रभृत् वरुणः पाशहस्तश्च सोमादित्यौ तथैव च अश्विनौ च महात्मानौ मरुतः शर्व एव च सिद्धिं सर्वाणि भूतानि भूतानां चैव यः प्रभुः दास्यन्ति मम ये चान्ये ह्यदृष्टाः पथि गोचराः
Verse 67
सिद्धिं मे संविधास्यन्ति देवाः सर्षिगणास्त्विह ब्रह्मा स्वयंभूर्भगवान् देवाश्चैव दिशन्तु मे सिद्धिमग्निश्च वायुश्च पुरुहूतश्च वज्रभृत् वरुणः पाशहस्तश्च सोमादित्यौ तथैव च अश्विनौ च महात्मानौ मरुतः शर्व एव च सिद्धिं सर्वाणि भूतानि भूतानां चैव यः प्रभुः दास्यन्ति मम ये चान्ये ह्यदृष्टाः पथि गोचराः
Verse 68
तदुन्नसं पाण्डुरदन्तमव्रणं शुचिस्मितं पद्मपलाशलोचनम् द्रक्ष्ये तदार्यावदनं कदान्वहं प्रसन्नताराधिपतुल्यदर्शनम्
Verse 69
क्षुद्रेण पापेन नृशंसकर्मणा सुदारुणालङ्कृतवेषधारिणा बलाभिभूता ह्यबला तपस्विनी कथं नु मे दृष्टिपथेऽद्य सा भवेत्
0:000:00
Speed: