🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 5 • Chapter 14

Sarga 14

52 verses

Verse 1
 मुहूर्तमिव ध्यात्वा मनसा चाधिगम्य ताम् अवप्लुतो महातेजाः प्राकारं तस्य वेश्मनः
Verse 2
 तु संहृष्टसर्वाङ्गः प्राकारस्थो महाकपिः पुष्पिताग्रान्वसन्तादौ ददर्श विविधान् द्रुमान् सालानशोकान् भव्यांश्च चंपकांश्च सुपुष्पितान् उद्दालकान्नागवृक्षांश्चूतान्कपिमुखानपि
Verse 3

Verse 4
अथाम्रवणसञ्छन्नां लताशतसमावृताम् ज्यामुक्त इव नाराचः पुप्लुवे वृक्षवाटिकाम्
Verse 5
 प्रविश्य विचित्रां तां विहगैरभिनादिताम् राजतैः कांचनैश्चैव पादपैः सर्वतो वृताम् विहगैर्मृगसङ्घैश्च विचित्रां चित्रकाननाम् उदितादित्यसङ्काशां ददर्श हनुमान् कपिः वृतां नानाविधैर्वृक्षैः पुष्पोपगफलोपगैः कोकिलैर्भृङ्गराजैश्च मत्तैर्नित्यनिषेविताम् प्रहृष्टमनुजे काले मृगपक्षिसमाकुले मत्तबर्हिणसङ्घुष्टां नानाद्विजगणायुताम्
Verse 6

Verse 7

Verse 8

Verse 9
मार्गमाणो वरारोहां राजपुत्रीमनिन्दिताम् सुखप्रसुप्तान्विहगान् बोधयामास वानरः
Verse 10
उत्पतद्भिर्द्विजगणैः पक्षैः सालास्समाहताः अनेकवर्णा विविधा मुमुचुः पुष्पवृष्टयः
Verse 11
पुष्पावकीर्णश्शुशुभे हनुमान् मारुतात्मजः अशोकवनिकामध्ये यथा पुष्पमयो गिरिः
Verse 12
दिशस्सर्वाः प्रधावन्तं वृक्षषण्डगतं कपिम् दृष्ट्वा सर्वाणि भूतानि वसन्त इति मेनिरे
Verse 13
वृक्षेभ्यः पतितैः पुष्पैरवकीर्णा पृथग्विदैः रराज वृक्षेभ्यः तत्र प्रमदेव विभूषिता
Verse 14
तरस्विना ते तरवस्तरसाभिप्रकम्पिताः कुसुमानि विचित्राणि ससृजुः कपिना तदा
Verse 15
निर्धूतपत्रशिखराः शीर्णपुष्पफला द्रुमाः निक्षिप्तवस्त्राभरणा धूर्ता इव पराजिताः
Verse 16
हनूमता वेगवता कम्पितास्ते नगोत्तमाः पुष्पपर्णफलान्याशु मुमुचुः पुष्पशालिनः
Verse 17
विहङ्गसङ्घैर्हीनास्ते स्कन्धमात्राश्रया द्रुमाः बभूवुरगमाः सर्वे मारुतेव निर्धुताः 5.14.17
Verse 18
निर्धूतकेशी युवतिर्यथा मृदितवर्णका निष्पीतशुभदन्तोष्ठी नखैर्दन्तैश्च विक्षता तथा लाङ्गूलहस्तैश्च चरणाभ्यां  मर्दिता बभूवाशोकवनिका प्रभग्नवरपादपा
Verse 19

Verse 20
महालतानां दामानि व्यथमत्तरसा कपिः यथा प्रावृषि विन्ध्यस्य मेघजालानि मारुतः
Verse 21
 तत्र मणिभूमीश्च राजतीश्च मनोरमाः तथा काञ्चनभूमीश्च ददर्श विचरन्कपिः
Verse 22
वापीश्च विविधाकाराः पूर्णाः परमवारिणा महार्हैर्मणिसोपानैरुपपन्नास्ततस्ततः मुक्ताप्रवालसिकताः स्फाटिकान्तरकुट्टिमाः काञ्चनैस्तरुभिश्चित्रैस्तीरजैरुपशोभिताः फुल्लपद्मोत्पलवनाश्चक्रवाकोपकूजिताः नत्यूहरुतसंघुष्टा हंससारसनादिताः दीर्घाभिर्द्रुमयुक्ताभिः सरद्भिश्च समन्ततः अमृतोपमतोयाभिश्शिवाभिरुपसंस्कृताः लताशतैरवततास्सन्तानकुसुमावृताः नानागुल्मावृतघनाः करवीरकृतान्तराः
Verse 23

Verse 24

Verse 25
वापीश्च विविधाकाराः पूर्णाः परमवारिणा महार्हैर्मणिसोपानैरुपपन्नास्ततस्ततः मुक्ताप्रवालसिकताः स्फाटिकान्तरकुट्टिमाः काञ्चनैस्तरुभिश्चित्रैस्तीरजैरुपशोभितैः फुल्लपद्मोत्पलवनाश्चक्रवाकोपकूजिताः नत्यूहरुतसंघुष्टा हंससारसनादिताः दीर्घाभिर्द्रुमयुक्ताभिः सरद्भिश्च समन्ततः अमृतोपमतोयाभिश्शिवाभिरुपसंस्कृताः लताशतैरवततास्सन्तानकुसुमावृताः नानागुल्मावृतघनाः करवीरकृतान्तराः
Verse 26

Verse 27
ततोऽम्बुधरसङ्काशं प्रवृद्धशिखरं गिरिम् विचित्रकूटं कूटैश्च सर्वतः परिवारितम् शिलागृहैरवततं नानावृक्षैः समावृतम् ददर्श हरिशार्दूलो रम्यं जगति पर्वतम्
Verse 28

Verse 29
ददर्श  नगात्तस्मान्नदीं निपतितां कपिः अङ्कादिव समुत्पत्य प्रियस्य पतितां प्रियाम् जले निपतिताग्रैश्च पादपैरुपशोभिताम् वार्यमाणामिव क्रुद्धां प्रमदां प्रियबन्धुभिः पुनरावृत्ततोयां  ददर्श  महाकपिः प्रसन्नामिव कान्तस्य कान्तां पुनरुपस्थिताम्
Verse 30

Verse 31

Verse 32
तस्या दूरात्सपद्मिन्यो नानाद्विजगणायुताः ददर्श हरिशार्दूलो हनुमान् मारुतात्मजः
Verse 33
कृत्रिमां दीर्घिकां चापि पूर्णां शीतेन वारिणा मणिप्रवरसोपानां मुक्तासिकतशोभिताम् विविधैर्मृगसङ्घैश्च विचित्रां चित्रकाननाम् प्रासादैस्सुमहद्भिश्च निर्मितैर्विश्वकर्मणा काननैः कृत्रिमैश्चापि सर्वतः समलङ्कृताम्
Verse 34

Verse 35
ये केचित्पादपास्तत्र पुष्पोपगफलोपगाः सच्छत्रास्सवितर्दीकास्सर्वे सौवर्णवैदिकाः
Verse 36
लताप्रतानैर्बहुभिःपर्णैश्च बहुभिर्वृताम् काञ्चनीं शिंशुपामेकां ददर्श हरियूथपः वृतां हेममयीभिस्तु वेदिकाभिस्समन्ततः
Verse 37

Verse 38
सोऽपश्यद्भूमिभागांश्च गर्तप्रस्रवणानि  सुवर्णवृक्षानपरान् ददर्श शिखिसन्निभान्
Verse 39
तेषां द्रुमाणां प्रभया मेरोरिव दिवाकरः अमन्यत तदा वीरः काञ्चनोऽस्मीति वानरः
Verse 40
तां काञ्चनैस्तरुगणैर्मारुतेन  वीजिताम् किङ्किणीशतनिर्घोषां दृष्ट्वा विस्मयमागमत्
Verse 41
 पुष्पिताग्रां रुचिरां तरुणाङ्कुरपल्लवाम् तामारुह्य महाबाहुश्शिंशुपां पर्णसंवृताम्
Verse 42
इतो द्रक्ष्यामि वैदेहीं रामदर्शनलालसाम् इतश्चेतश्च दुःखार्तां सम्पतन्तीं यदृच्छया
Verse 43
अशोकवनिका चेयं दृढं रम्या दुरात्मनः चम्पकैश्चन्दनैश्चापि वकुलैश्च विभूषिता
Verse 44
इयं  नलिनी रम्या द्विजसङ्घनिषेविता इमां सा राममहिषी नूनमेष्यति जानकी
Verse 45
सा रामा राममहिषी राघवस्य प्रिया सती वनसञ्चारकुशला नूनमेष्यति जानकी
Verse 46
अथवा मृगशाबाक्षी वनस्यास्य विचक्षणा वनमेष्यति साऽर्येह रामचिन्तानुकर्शिता
Verse 47
रामशोकाभिसन्तप्ता सा देवी वामलोचना वनवासे रता नित्यमेष्यते वनचारिणी
Verse 48
वनेचराणां सततं नूनं स्पृहयते पुरा रामस्य दयिता भार्या जनकस्यसुता सती
Verse 49
सन्ध्याकालमनाः श्यामा ध्रुवमेष्यति जानकी नदीं चेमां शुभजलां सन्ध्यार्थे वरवर्णिनी
Verse 50
तस्याश्चाप्यनुरूपेयमशोकवनिका शुभा शुभा या पार्थिवेन्द्रस्य पत्नी रामस्य सम्मता
Verse 51
यदि जीवति सा देवी ताराधिपनिभानना आगमिष्यति साऽवश्यमिमां शिवजलां नदीम्
Verse 52
एवं तु मत्वा हनुमान्महात्मा प्रतीक्षमाणो मनुजेन्द्रपत्नीम् अवेक्षमाणश्च ददर्श सर्वं सुपुष्पिते पर्णघने निलीनः
0:000:00
Speed: